Vedanta Search Review

http://sanskrit.jnu.ac.in/vedanta/index.jsp?lex=%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6&itext=%E0%A4%85%E0%A4%9C&itrans=&lastChar=#result

अज १.११३.४/१.८.१.४ भास्व॑ती ने॒त्री सू॒नृता॑ना॒मचे॑ति चि॒त्रा वि दुरो॑ न आवः । प्रार्प्या॒ जग॒द्व्यु॑ नो रा॒यो अ॑ख्यदु॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥
अज १.११३.५/१.८.१.५ जि॒ह्म॒श्ये॒३॒॑ चरि॑तवे म॒घोन्या॑भो॒गय॑ इ॒ष्टये॑ रा॒य उ॑ त्वम् । द॒भ्रं पश्य॑द्भ्य उर्वि॒या वि॒चक्ष॑ उ॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥
अज १.११३.६/१.८.२.१ क्ष॒त्राय॑ त्वं॒ श्रव॑से त्वं मही॒या इ॒ष्टये॑ त्व॒मर्थ॑मिव त्वमि॒त्यै । विस॑दृशा जीवि॒ताभि॑प्र॒चक्ष॑ उ॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥
अज १.११३.९/१.८.२.४ उषो॒ यद॒ग्निं स॒मिधे॑ च॒कर्थ॒ वि यदाव॒श्चक्ष॑सा॒ सूर्य॑स्य । यन्मानु॑षान्य॒क्ष्यमा॑णाँ॒ अजी॑ग॒स्तद्दे॒वेषु॑ चकृषे भ॒द्रमप्न॑: ॥
अज १.११६.१३/१.८.१०.३ अजो॑हवीन्नासत्या क॒रा वां॑ म॒हे याम॑न्पुरुभुजा॒ पुरं॑धिः । श्रु॒तं तच्छासु॑रिव वध्रिम॒त्या हिर॑ण्यहस्तमश्विनावदत्तम् ॥
अज १.११६.२०/१.८.११.५ परि॑विष्टं जाहु॒षं वि॒श्वत॑: सीं सु॒गेभि॒र्नक्त॑मूहथू॒ रजो॑भिः । वि॒भि॒न्दुना॑ नासत्या॒ रथे॑न॒ वि पर्व॑ताँ अजर॒यू अ॑यातम् ॥
अज १.११७.१५/१.८.१५.५ अजो॑हवीदश्विना तौ॒ग्र्यो वां॒ प्रोळ्ह॑: समु॒द्रम॑व्य॒थिर्ज॑ग॒न्वान् । निष्टमू॑हथुः सु॒युजा॒ रथे॑न॒ मनो॑जवसा वृषणा स्व॒स्ति ॥

 

अज : (ऋग्वेद)
>> संहिता पाठ=अजोहवीन्नासत्या करा वां महे यामन्पुरुभुजा पुरंधिः । श्रुतं तच्छासुरिव वध्रिमत्या हिरण्यहस्तमश्विनावदत्तम् ॥
>> मण्डलक्रमांक/अष्टक.अध्याय.वर्ग.मन्त्रसंख्या=१.११६.१३/१.८.१०.३
>> स्वरयुक्त संहिता पाठ=अजो॑हवीन्नासत्या क॒रा वां॑ म॒हे याम॑न्पुरुभुजा॒ पुरं॑धिः । श्रु॒तं तच्छासु॑रिव वध्रिम॒त्या हिर॑ण्यहस्तमश्विनावदत्तम् ॥
>> पदपाठ=अजो॑हवीत् । ना॒स॒त्या॒ । क॒रा । वा॒म् । म॒हे । याम॑न् । पु॒रु॒ऽभु॒जा॒ । पुर॑म्ऽधिः । श्रु॒तम् । तत् । शासुः॑ऽइव । व॒ध्र॒िऽम॒त्याः । हिर॑ण्यऽहस्तम् । अ॒श्वि॒नौ॒ । अ॒द॒त्त॒म् ॥
>> ऋषि=कक्षीवान्
>> देवता=अश्विनौ
>> छन्द=निचृत्त्रिष्टुप्
>> स्वर=धैवतः