Пятая книга Рамаяны с санскритским комментарием

॥ श्रीः॥

आदिकविश्रीवाल्मीकिमहामुनिप्रणीतं
रामायणम्।

तिलकाख्यया व्याख्यया समेतम् ।
सुन्दरकाण्डम् ।
प्रथमः सर्गः।

 

ततो रावणनीतायाः सीतायाः शत्रुकर्षणः । इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥                १

दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन्कर्म वानरः । समुदग्रशिरोग्रीवो गवां पतिरिवाबभौ ॥            २

अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः । धीरः सलिलकल्पेषु विचचार यथासुखम् ॥              ३

द्विजान्वित्रासयन्धीमानुरसा पादपान्हरन् । मृगांश्च सुबहून्निघ्नन्प्रवृद्ध इव केसरी ॥               ४

नीललोहितमाञ्जिष्ठपद्मवर्णैः सितासितैः । स्वभावसिद्धैर्विमलैर्धातुभिः समलंकृतम् ॥           ५

कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः । यक्षकिंनरगन्धर्वैर्देवकल्पैः सपन्नगैः ॥            ६

स तस्य गिरिवर्यस्य तले नागवरायुते । तिष्ठन्कपिवरस्तत्र ह्रदे नाग इवबभौ ॥             ७

स सूर्याय महेन्द्राय पवनाय स्वयंभुवे । भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ॥       ८

अञ्जलिं प्राङ्मुखं कुर्वन्पवनायात्मयोनये । ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम् ॥      ९

प्लवगप्रवरैर्दृष्टः प्लवने कृतनिश्चयः । ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु ॥                      १०

निष्प्रमाणशरीरः संल्लिलङ्घयिषुरर्णवम् । बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ॥        ११

______________________________________________________________________

सुन्दरे यस्य दासोऽब्धिं तीर्त्वा दृष्ट्वा च मैथिलीम् । दृष्टा सीतेत्यभ्यवोचत्तं रामं नौमि चिद्धनम् ॥

अथ समुद्रकूर्दनमिच्छति स्म-तत इति । ततः शत्रुकर्षणो हनुमान्रावणनीताया रावणहृतायाः सीतायाः पदमवस्थितिस्थानमन्वेष्टुं चारणैर्देवजातिविशेषैराचरिते क्रियमाणसंचारे पथ्याकाशमार्गे गमनायेयेष ॥ १ ॥ निष्प्रतिद्वन्द्वं सहायान्तररहितं प्रतिबन्धरहितं च । अन्यैर्दुष्करं कर्म लङ्घनपूर्वं सीतान्वेषणकर्म । समुदग्रमुन्नतं शिरो ग्रीवा च यस्य सः, अतएव गवां पतिर्वृष इवाबभौ ॥ २ ॥ वैदूर्यवर्णशाद्वलप्रदेशस्य समुद्रजलवच्छ्या-मत्वमृदुत्वाभ्यामुरसा प्लवनसदृशक्रियाकालिकोरःपेषणेन प्रवृद्धः केसरीव विचचार ॥३॥ ४ ॥ नीललो-हितो रक्तश्यामः । माञ्जिष्ठः कृष्णपाण्डुर इति कतकः । माञ्जिष्ठः पाटल इत्यन्ये । पद्मवर्णः प्रसिद्धः । सिता-सितैः कल्माषैः । कृष्णपाण्डुरैरिति यावत् । स्वभावसिद्धैः शैलस्वभावसिद्धैरुक्तरूपैर्धातुभिः समलंकृतम् । कामरूपित्वादिविशेषणवद्भिर्यक्षादिभिरभीक्ष्णमाविष्टं यत्तस्य गिरिवर्यस्य तलं तत्र नागवरैरासमन्ताद्युते   तिष्ठन्स कपिर्ह्रदे नाग इवाबभौ । गिरौ ह्रदसाम्यं श्यामलत्वेन ॥ ५ ॥ ६ ॥ ७ ॥   स्वयंभुवे पवनाय पूयते येन स्वज्ञानेन योगिवृन्दं स पवनो भगवान्प्रत्यक्तत्त्वभूतो रामः । एतेन सकलविघ्ननिवारणायेष्टदेवता-प्रार्थनापूर्वं यात्रा कर्तव्येति सदाचारो बोधितः ॥ ८ ॥ आत्मयोनये. पवनाय । स्वजनकवायव इत्यर्थः । दक्षिणः कुशलः ॥ ९ ॥ रामवृद्ध्यर्थं रामाभ्युदयाय ॥ १० ॥ निष्प्रमाणशरीरः परिच्छेदातिक्रान्तदेहः ।

 

स चचालाचलश्चाशु मुहूर्तं कपिपीडितः । तरूणां पुष्पिताग्राणां सर्वं ष्पमशातयत् ॥       १२

तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना । सर्वतः स वृतः शैलो बभौ पुष्पमयो यथा ॥           १३

तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः । सलिलं संप्रसुस्राव मदमत्त इव द्विपः॥             १४

पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः । रीतीर्निर्वर्तयामास काञ्चनाञ्चनराजतीः॥          १५

मुमोच च शिलाः शैलो विशालाः समनःशिलाः । मध्यमेनाचिषा जुष्टो धूमराजिरिवानलः॥

हरिणा पीड्यमानेन पीड्यमानानि सर्वतः । गुहाविष्टानि सत्त्वानि विनेदुर्विकृतैः स्वरैः ॥    १७

स महान्सत्त्वसंनादः शैलपीडानिमित्तजः । पृथिवीं पूरयामास दिशश्चोपवनानि च ॥          १८

शिरोभिः पृथुभिर्नागा व्यक्तस्वस्तिकलक्षणैः । वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः॥    १९

तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः । जज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा ॥      २०

यानि त्वौषधजालानि तस्मिञ्जातानि पर्वते । विषघ्नान्यपि नागानां न शेकुः शमितुं विषम् ॥    २१

भिद्यतेऽयं गिरिर्भूतैरिति मत्त्वा तपखिनः । त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह ॥    २२

पानभूमिगतं हित्वा हैममासनभाजनम् । पात्राणि च महार्हाणि करकांश्च हिरण्मयान् ॥        २३

लेह्यानुच्चावचान्भक्ष्यान्मांसानि विविधानि च । आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् ॥

कृतकण्ठगुणाः क्षीवा रक्तमाल्यानुलेपनाः । रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपदिरे ॥         २५

हारनूपुरकेयूरपारिहार्यधराः स्त्रियः । विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह ॥        २६

एष पर्वतसंकाशो हनुमान्मारुतात्मजः । तितीर्षति महावेगः समुद्रं वरुणालयम् ॥             २७

रामार्थं वानरार्थं च चिकीर्षन्कर्म दुष्करम् । समुद्रस्य परं पारं दुष्प्रापं प्राप्नुमिच्छति ॥       २८

इति विद्याधरा वाचः श्रुत्वा तेषां तपस्विनाम् । तमप्रमेयं ददृशुः पर्वते वानरर्षभम् ॥       २९

 

 

 

 

 

______________________________________________________________________

पीडयामास लिलङ्धयिषासंनाहवशतः ॥ ११ ॥ एकेन पीडनव्यापारेण मुहूर्तपर्यन्तं चलनम् । अशातयत् । पर्वतः कर्ता, चलनं करणम् ॥ १२ ॥ पुष्पमयो यथा । पुष्पप्रचुरः स्वयभिवेत्यर्थः ॥ १३ ॥   उत्तमवी-र्येण तेन पीड्यमानः स पर्वतः सलिलं प्रसुस्राव ॥ १४ ॥ उक्तार्थस्यैव विवरणम्-पीड्यमान इति । काञ्चनाञ्जनराजतीस्तदाभा रीतीः स्रोतःप्रकारान्निर्वर्तयामास । तदाभत्वमुपाधिकृतम् ॥ १५ ॥    किं च स शैलः समनःशिला विशालाः शिला मुमोच निपीडनात् ।           अतएव मध्यमेन मध्यभागेनार्चिषा ज्वालया जुष्टो योऽनलस्तस्य धूमराजिरिव बभावित्यर्थः । यस्येत्यध्याहारः। ’धूमराजिरिव‘ इति ह्रस्वपाठः ।तीर्थस्तु— मध्यमेनार्चिषा मध्यमाख्ययाग्निजिह्वया जुष्टो विशिष्टोऽग्निर्धूमराजीरिव । धूमनिचयानिवेत्यर्थः । ’धूमराजीरिव‘ इति च पाठ इत्याह ॥ १६ ॥ हरिणा हनुमता पीड्यमानेन पर्वतेन पीड्यमानानि सत्त्वानि ॥ १७ ॥ ’स महासत्त्व-‘इति पाठे महासत्त्वा महाजन्तवस्तेषां संनाद इति तीर्थः ।            ’स महान्सत्त्वसंनादः‘ इति पाठान्तरम् ॥ १८ ॥ स्वस्तिकः फणास्थनीलरेखा तच्चिह्नैः शिरोभिरुपलक्षिताः । ददंशुः । पीडाजनित-क्रोधवशात् ॥ १९ ॥ सविषैस्तैः सर्पेर्दष्टाः सत्यः पावकोद्दीप्ता इव जज्वलुः । बिभिदुर्भिन्ना बभूवुश्च
॥ २० ॥ शमितुं शमयितुम् ॥ २१ ॥ भूतैर्ब्रह्मरक्षःप्रभृतिमहाभूतैः ॥ २२ ॥           हित्वेत्यत्र विद्याधराः कर्तारः ॥ २३ ॥ आर्षभाणि ऋषभचर्मनिर्मितानि चर्माणि फलकानि । त्सरुः खड्गमुष्टिः ॥ २४ ॥ कृताः कण्ठेषु गुणाः स्रजो यैस्ते । क्षीबा मत्ताः । पुष्करं पद्मम् ॥ २५ ॥         पारिहार्यशब्दः श्रेष्ठवाचीति कतकः । पारिहार्यो वलय इति तीर्थः । एतदग्रे ’दर्शयन्तो महाविद्यां विद्याधरमहर्षयः । सहितास्तस्थुराकाशे वीक्षांचक्रुश्च पर्वतम् ॥ शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम् । चारणानां च सिद्धानां स्थितानां विम-लेऽम्बरे॥‘ इति श्लोकद्वयं प्रक्षिप्तं क्वचिदिति कतकः ॥२६॥२७॥२८॥ तेषां तपस्विनामाकाशचारितपखिनां