Рубрика: Санскрит
Пятая книга Рамаяны с санскритским комментарием
॥ श्रीः॥
आदिकविश्रीवाल्मीकिमहामुनिप्रणीतं
रामायणम्।
तिलकाख्यया व्याख्यया समेतम् ।
सुन्दरकाण्डम् ।
प्रथमः सर्गः।
ततो रावणनीतायाः सीतायाः शत्रुकर्षणः । इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥ १
दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन्कर्म वानरः । समुदग्रशिरोग्रीवो गवां पतिरिवाबभौ ॥ २
अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः । धीरः सलिलकल्पेषु विचचार यथासुखम् ॥ ३
द्विजान्वित्रासयन्धीमानुरसा पादपान्हरन् । मृगांश्च सुबहून्निघ्नन्प्रवृद्ध इव केसरी ॥ ४
नीललोहितमाञ्जिष्ठपद्मवर्णैः सितासितैः । स्वभावसिद्धैर्विमलैर्धातुभिः समलंकृतम् ॥ ५
कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः । यक्षकिंनरगन्धर्वैर्देवकल्पैः सपन्नगैः ॥ ६
स तस्य गिरिवर्यस्य तले नागवरायुते । तिष्ठन्कपिवरस्तत्र ह्रदे नाग इवबभौ ॥ ७
स सूर्याय महेन्द्राय पवनाय स्वयंभुवे । भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ॥ ८
अञ्जलिं प्राङ्मुखं कुर्वन्पवनायात्मयोनये । ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम् ॥ ९
प्लवगप्रवरैर्दृष्टः प्लवने कृतनिश्चयः । ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु ॥ १०
निष्प्रमाणशरीरः संल्लिलङ्घयिषुरर्णवम् । बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ॥ ११
______________________________________________________________________
सुन्दरे यस्य दासोऽब्धिं तीर्त्वा दृष्ट्वा च मैथिलीम् । दृष्टा सीतेत्यभ्यवोचत्तं रामं नौमि चिद्धनम् ॥
अथ समुद्रकूर्दनमिच्छति स्म-तत इति । ततः शत्रुकर्षणो हनुमान्रावणनीताया रावणहृतायाः सीतायाः पदमवस्थितिस्थानमन्वेष्टुं चारणैर्देवजातिविशेषैराचरिते क्रियमाणसंचारे पथ्याकाशमार्गे गमनायेयेष ॥ १ ॥ निष्प्रतिद्वन्द्वं सहायान्तररहितं प्रतिबन्धरहितं च । अन्यैर्दुष्करं कर्म लङ्घनपूर्वं सीतान्वेषणकर्म । समुदग्रमुन्नतं शिरो ग्रीवा च यस्य सः, अतएव गवां पतिर्वृष इवाबभौ ॥ २ ॥ वैदूर्यवर्णशाद्वलप्रदेशस्य समुद्रजलवच्छ्या-मत्वमृदुत्वाभ्यामुरसा प्लवनसदृशक्रियाकालिकोरःपेषणेन प्रवृद्धः केसरीव विचचार ॥३॥ ४ ॥ नीललो-हितो रक्तश्यामः । माञ्जिष्ठः कृष्णपाण्डुर इति कतकः । माञ्जिष्ठः पाटल इत्यन्ये । पद्मवर्णः प्रसिद्धः । सिता-सितैः कल्माषैः । कृष्णपाण्डुरैरिति यावत् । स्वभावसिद्धैः शैलस्वभावसिद्धैरुक्तरूपैर्धातुभिः समलंकृतम् । कामरूपित्वादिविशेषणवद्भिर्यक्षादिभिरभीक्ष्णमाविष्टं यत्तस्य गिरिवर्यस्य तलं तत्र नागवरैरासमन्ताद्युते तिष्ठन्स कपिर्ह्रदे नाग इवाबभौ । गिरौ ह्रदसाम्यं श्यामलत्वेन ॥ ५ ॥ ६ ॥ ७ ॥ स्वयंभुवे पवनाय पूयते येन स्वज्ञानेन योगिवृन्दं स पवनो भगवान्प्रत्यक्तत्त्वभूतो रामः । एतेन सकलविघ्ननिवारणायेष्टदेवता-प्रार्थनापूर्वं यात्रा कर्तव्येति सदाचारो बोधितः ॥ ८ ॥ आत्मयोनये. पवनाय । स्वजनकवायव इत्यर्थः । दक्षिणः कुशलः ॥ ९ ॥ रामवृद्ध्यर्थं रामाभ्युदयाय ॥ १० ॥ निष्प्रमाणशरीरः परिच्छेदातिक्रान्तदेहः ।
स चचालाचलश्चाशु मुहूर्तं कपिपीडितः । तरूणां पुष्पिताग्राणां सर्वं ष्पमशातयत् ॥ १२
तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना । सर्वतः स वृतः शैलो बभौ पुष्पमयो यथा ॥ १३
तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः । सलिलं संप्रसुस्राव मदमत्त इव द्विपः॥ १४
पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः । रीतीर्निर्वर्तयामास काञ्चनाञ्चनराजतीः॥ १५
मुमोच च शिलाः शैलो विशालाः समनःशिलाः । मध्यमेनाचिषा जुष्टो धूमराजिरिवानलः॥
हरिणा पीड्यमानेन पीड्यमानानि सर्वतः । गुहाविष्टानि सत्त्वानि विनेदुर्विकृतैः स्वरैः ॥ १७
स महान्सत्त्वसंनादः शैलपीडानिमित्तजः । पृथिवीं पूरयामास दिशश्चोपवनानि च ॥ १८
शिरोभिः पृथुभिर्नागा व्यक्तस्वस्तिकलक्षणैः । वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः॥ १९
तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः । जज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा ॥ २०
यानि त्वौषधजालानि तस्मिञ्जातानि पर्वते । विषघ्नान्यपि नागानां न शेकुः शमितुं विषम् ॥ २१
भिद्यतेऽयं गिरिर्भूतैरिति मत्त्वा तपखिनः । त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह ॥ २२
पानभूमिगतं हित्वा हैममासनभाजनम् । पात्राणि च महार्हाणि करकांश्च हिरण्मयान् ॥ २३
लेह्यानुच्चावचान्भक्ष्यान्मांसानि विविधानि च । आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् ॥
कृतकण्ठगुणाः क्षीवा रक्तमाल्यानुलेपनाः । रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपदिरे ॥ २५
हारनूपुरकेयूरपारिहार्यधराः स्त्रियः । विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह ॥ २६
एष पर्वतसंकाशो हनुमान्मारुतात्मजः । तितीर्षति महावेगः समुद्रं वरुणालयम् ॥ २७
रामार्थं वानरार्थं च चिकीर्षन्कर्म दुष्करम् । समुद्रस्य परं पारं दुष्प्रापं प्राप्नुमिच्छति ॥ २८
इति विद्याधरा वाचः श्रुत्वा तेषां तपस्विनाम् । तमप्रमेयं ददृशुः पर्वते वानरर्षभम् ॥ २९
______________________________________________________________________
पीडयामास लिलङ्धयिषासंनाहवशतः ॥ ११ ॥ एकेन पीडनव्यापारेण मुहूर्तपर्यन्तं चलनम् । अशातयत् । पर्वतः कर्ता, चलनं करणम् ॥ १२ ॥ पुष्पमयो यथा । पुष्पप्रचुरः स्वयभिवेत्यर्थः ॥ १३ ॥ उत्तमवी-र्येण तेन पीड्यमानः स पर्वतः सलिलं प्रसुस्राव ॥ १४ ॥ उक्तार्थस्यैव विवरणम्-पीड्यमान इति । काञ्चनाञ्जनराजतीस्तदाभा रीतीः स्रोतःप्रकारान्निर्वर्तयामास । तदाभत्वमुपाधिकृतम् ॥ १५ ॥ किं च स शैलः समनःशिला विशालाः शिला मुमोच निपीडनात् । अतएव मध्यमेन मध्यभागेनार्चिषा ज्वालया जुष्टो योऽनलस्तस्य धूमराजिरिव बभावित्यर्थः । यस्येत्यध्याहारः। ’धूमराजिरिव‘ इति ह्रस्वपाठः ।तीर्थस्तु— मध्यमेनार्चिषा मध्यमाख्ययाग्निजिह्वया जुष्टो विशिष्टोऽग्निर्धूमराजीरिव । धूमनिचयानिवेत्यर्थः । ’धूमराजीरिव‘ इति च पाठ इत्याह ॥ १६ ॥ हरिणा हनुमता पीड्यमानेन पर्वतेन पीड्यमानानि सत्त्वानि ॥ १७ ॥ ’स महासत्त्व-‘इति पाठे महासत्त्वा महाजन्तवस्तेषां संनाद इति तीर्थः । ’स महान्सत्त्वसंनादः‘ इति पाठान्तरम् ॥ १८ ॥ स्वस्तिकः फणास्थनीलरेखा तच्चिह्नैः शिरोभिरुपलक्षिताः । ददंशुः । पीडाजनित-क्रोधवशात् ॥ १९ ॥ सविषैस्तैः सर्पेर्दष्टाः सत्यः पावकोद्दीप्ता इव जज्वलुः । बिभिदुर्भिन्ना बभूवुश्च
॥ २० ॥ शमितुं शमयितुम् ॥ २१ ॥ भूतैर्ब्रह्मरक्षःप्रभृतिमहाभूतैः ॥ २२ ॥ हित्वेत्यत्र विद्याधराः कर्तारः ॥ २३ ॥ आर्षभाणि ऋषभचर्मनिर्मितानि चर्माणि फलकानि । त्सरुः खड्गमुष्टिः ॥ २४ ॥ कृताः कण्ठेषु गुणाः स्रजो यैस्ते । क्षीबा मत्ताः । पुष्करं पद्मम् ॥ २५ ॥ पारिहार्यशब्दः श्रेष्ठवाचीति कतकः । पारिहार्यो वलय इति तीर्थः । एतदग्रे ’दर्शयन्तो महाविद्यां विद्याधरमहर्षयः । सहितास्तस्थुराकाशे वीक्षांचक्रुश्च पर्वतम् ॥ शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम् । चारणानां च सिद्धानां स्थितानां विम-लेऽम्बरे॥‘ इति श्लोकद्वयं प्रक्षिप्तं क्वचिदिति कतकः ॥२६॥२७॥२८॥ तेषां तपस्विनामाकाशचारितपखिनां
Пение мантр отзывы
Пение мантр отзывы
🌿 Санскритская рецитация продолжается 🌿
Сегодня завершился двухмесячный курс по рецитации имен Ганеши!
Время пролетело быстро, но с пользой. Произношение улучшилось,
способности устранять препятствия расширились.
С 14 ноября 2021 года начинается новый 2-х месячный курс
рецитации имен Дурги! Идет набор. Не хватает только вас 😉
По воскресеньям, с 10:00 до 11:15 по Москве вместе с Usha Sanka , потомственной брахманкой и кандидатом филологических наук из Тирупати.
Желающие попасть в милость Дурги, пишите в ЛС.
мантра горловое пение, мантры горловое пение mp3, горловое пение мантры ом
пение мантры тибетскими монахами, тибетские мантры пение, горловое пение тибетских монахов мантры, мантры горловое пение тибетских
пение мантры ом, пение мантры аум, пение мантры аум садхгуру, мантры пение музыка
мантра пение птиц, пение мантры ом монахом сао джи видео, пение мантр слушать, красивое пение мантр
чтение или пение маха мантры святым, скачать пение мантр, пение мантр слушать онлайн бесплатно
пение мантр, пение мантр отзывы, пение мантр в москве, пение мантр обучение

